श्रीनृसिंह सरस्वती स्वामी स्तोत्र

श्रीनृसिंह सरस्वती स्वामी यांचे स्तोत्र

॥ आदौ ब्रह्मत्वमेव सर्वजगतां वेदात्ममूर्तिं विभुं । 
पश्चात्‌ क्षोणिजडा विनाश-दितिजां कृत्वाऽवतारं प्रभो । 
हत्वा दैत्यमनेकधर्मचरितं, भूत्वाऽत्मजोऽत्रेर्गृहे । 
वंदेऽहं नरकेसरीसरस्वती श्रीपादयुग्मांबुजम्‌ ॥१॥

भूदेवाखिलमानुषं विदुजना बाधायमानं कलिं ।
वेदादुश्यमनेकवर्णमनुजा, भेदादि-भूतोन्नतम्‌ ।
छेदः कर्मतमांधकारहरणं श्रीपादसूर्योदयं ।
वंदेऽहं नरकेसरीसरस्वती श्रीपादयुग्मांबुजम्‌ ॥२॥

धातस्त्वं हरिशंकरप्रतिगुरो, जाताग्रजन्मं विभो ।
हेतुः सर्वविदोजनाय तरणं, ज्योतिःस्वरुपं जगत्‌ ।
चातुर्थाश्रमस्थापितं क्षितितले, पातुः सदा सेव्ययं ।
वंदेऽहं नरकेसरीसरस्वतीश्रीपादयुग्मांबुजम्‌ ॥३॥

चरितं चित्रमनेककीर्तिमतुलं, परिभूतभूमंडले ।
मूकं वाक्यदिवांधकस्य नयनं, वंध्यां च पुत्रं ददौ ।
सौभाग्यं विधवां च दायकश्रियं, दत्त्वा च भक्तं जनं ।
वंदेऽहं नरकेसरीसरस्वतीश्रीपादयुग्मांबुजम्‌ ॥४॥

दुरितं, घोरदरिद्रदावतिमिरं, हरणं जगज्जोतिष ।
स्वर्धेंनुं सुरपादपूजितजना, करुणाब्धिभक्तार्तितः ।
नरसिंहेंद्रसरस्वतीश्वर विभो, शरणागतं रक्षकं ।
वंदेऽहं नरकेसरीसरस्वती श्रीपादयुग्मांबुजम्‌ ॥५॥

गुरुमूर्तिश्चरणारविंदयुगलं, स्मरणं कृतं नित्यसौ ।
चरितं क्षेत्रमनेकतीर्थसफलं सरितादि-भागीरथी ।
तुरगामेधसहस्त्रगोविदुजनाः स्मयक्‌ ददंस्तत्फलं ।
वंदेऽहं नरकेसरीसरस्वतीश्रीपादयुग्मांबुजम्‌ ॥६॥

नो शक्यं तव नाममंगल-स्तुवं, वेदागमागोचरं ।
पादद्वं ह्रदयाब्जमंतरजलं निर्धारमीमांसतं ।
भूयो भूयः स्मरन्नमामि मनसा, श्रीमद्‌गुरुं पाहि मां ।
वंदेऽहं नरकेसरीसरस्वती श्रीपादयुग्मांबुजम्‌ ॥७॥

भक्तानां तरणार्थ सर्वजगतां, दीक्षां ददन्योगिनां ।
सुक्षेत्रं पुरगाणगस्थित प्रभो, दत्त्वा चतुष्कामदं ।
स्तुत्वा भक्तसरस्वतीगुरुपदं, जित्वाऽद्यदोषादिकं ।
वंदेऽहं नरकेसरीसरस्वती श्रीपादयुग्मांबुजम्‌ ॥८॥

एवं श्रीगुरुनाथमष्‍टकमिदं स्तोत्रं पठेन्नित्यसौ ।
तेजोवर्चबलोन्नतं श्रियकरं आनंदवर्धं वपुः ।
पुत्रापत्यमनेकसंपदशुभा दीर्घायुरारोग्यतां ।
वंदेऽहं नरकेसरीसरस्वती श्रीपादयुग्मांबुजम्‌ ॥९॥

दिगंबरा दिगंबरा श्रीपाद वल्लभ दिगंबरा